संस्कृत-शब्दकोशः

श्वसुर्य श्वस्तन

श्वस्

श्वः (अव्यय)


निष्पत्ति− पृषो० ।
व्युत्पत्ति− आगामि अहः
प्रयोग− १) "श्वो मया सह गन्तासि जनन्या च समेधितः" । २) "श्वस्त्यया सुखसंवित्तिः स्मरणीयाधुनातनी" ।
उल्लेख− रामा०, किरा० ११-३४

अर्थ−
भोलि /आउने अर्को दिन ।(श्वस्)


श्वस प्राणने


गणः- अदादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- श्वसिति

अर्थ−
१. सास फेर्नु, श्वास लिनु,
२. बाँच्नु ।
आ-
१. समाधान गर्नु, आश्वासन दिनु ।
उद्-
१. विकसित हुनु, प्रफुल्ल हुनु, फुल्नु,
२. सान्त्वना दिनु, समाधान गर्नु ।
निर्-
१. मर्नु, प्राणत्याग गर्नु,
२. सास भर्नु ।
वि-
१. विश्वास गर्नु, भरोसा गर्नु ।

कृदन्तरूपमाला

  • 1“श्वस प्राणने” 2 ‘प्रत्ययादा 3 श्वसन्त्यः’, 4 श्वासः, 5 श्वसनः, 6 आश्वस्तः-आश्वसितः।
  • इतराणि सर्वाण्यपि रूपाणि आदादिकास्तिवत् 7 बोध्यानि।

प्रासङ्गिक्यः

  • (१८०२)
  • (२-अदादिः-१०६९। अक। सेट्। पर।)
  • १। अत्र नुम् न शास्त्रसम्मतः। परं तु ‘गणकार्यमनित्यम्’ (परि। ९६) इति साधयन्ति। एवं ‘न विश्वसेदविश्वस्तं विश्वस्ते नातिविश्वसेत्’ ‘न विश्वसेत् पूर्वविरोधितस्य’ इत्याद्यपि भौवादिकवत् रूपाणि गणकार्यस्यानित्यत्वेन साधयन्ति। परे तु ‘प्रत्ययादाश्वसत्यः’ इत्येव नुम्रहितं पाठमादृत्य, ‘विश्वसेत्’ इत्यादि- स्थलेषु आर्षत्वात् समाधानं च वदन्ति।
  • २। ‘श्याऽऽद्व्यधास्रुसंस्रवतीणवसावहृलिहश्लिषश्वसश्च’ (३-१-१४१) इति कर्तरि
  • ३। नन्द्यादित्वात् कर्तरि ल्युप्रत्ययः। श्वसनः = वायुः।
  • ४। ‘आदितश्च’ (७-२-१६) इत्यत्र चकारस्यानुक्तसमुच्चयार्थकत्वात् ‘आश्वस्तः’ णप्रत्ययः। इत्यत्रापि अनिट्त्वम्--इति काशिका। “निष्ठायामिटं नेच्छन्ति काशकृत्स्नाः’ इति स्वामिकाश्यपौ। आत्रेयमैत्रेयौ तु ‘आश्वसितः’ इतीटं चाहतुः” इति धातुवृत्तिः। अतश्चोभयथाऽप्यस्माभिः प्रदर्शितं रूपम्।
  • (५२)



Correction: