वासन्तिक
वासर
वासन्ती
वासन्ती परि०- मात्तो नो मो गौ यदि गदिता वासन्तीयम् ।
गण०-म, त, न, म, ग, ग (4.6.4) ।
उदा०-
“भ्राम्यद्भृङ्गी निर्भरमधुरालापोद्गीतैः श्रीखण्डाद्रेरद्भुतपवनैर्मन्दान्दोला।
लीलालोला पल्लवविलसद्धस्तोल्लासैः कंसारातौ नृत्यति सदृशी वासन्तीयम् ॥”