संस्कृत-शब्दकोशः

प्रभविष्णुता प्रभाकर

प्रभा

वाचस्पत्यम्

प्रभा ||‍ स्त्री प्र + भा—भावे अङ् । १ दीप्तौ राजनि० । प्र + भा—क । २ प्रदीप्तियुते त्रि० ३ कुवेरपूर्य्यां स्त्री हेमच० । ४ दुर्गायां स्त्री “प्रभा प्रभानशीलत्वात् ज्योत्स्ना चन्द्रार्कमालिनी” देवीपु० तन्नामनिरुक्तौ । ५ सूर्य्यपत्नीभेदे “विवस्वान् कश्यपात् पूर्वमदित्यामभवत् पुरा । तस्य पत्नीत्रय तद्वत् संज्ञा राज्ञी प्रभा तथा । रेवतस्य सुता राज्ञी रेवन्तं सुषुवे सुतम् । प्रभा प्रभावं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम्” मत्स्यपु० ११ अ० । ६ स्वर्भानोः कन्याभेदे नहुषमातरि हरिवं० ३ अ० । ७ अप्सरोभेदे भा० अनु० १४२५ श्लो० ८ गोपीभेदे “दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने । प्रभा देहं परित्यज्य जगाम सूर्य्यमण्डलम्” ब्रह्मबै० प्र० ख० ९ अ० ।


शब्दकल्पद्रुमः

प्रभा || स्त्री (प्रकर्षेण भातीति । प्र + भा + “आत- श्चोपसर्गे ।” ३ । ३ । १०६ । इति अङ् ।)
कुवेरपुरी । इति हेमचन्द्रः । २ । १०४ ॥ (प्र + भा + भावे अङ् ।)
दीप्तिः । तत्पर्य्यायः । रोचिः २ द्युतिः ३ शोचिः ४ त्विषा ५ ओजः ६ भाः ७ रुचिः ८ विभा ९ आलोकः १० प्रकाशः ११ तेजः १२ रुक् १३ । इति राज- निर्घण्टः ॥ * ॥
(यथा, रामायणे । २ । ३९ । १८ । “व्यराजयत वैदेही वेश्म तत् सुविभूषिता । उद्यतोऽंशुमतः काले खं प्रभेव विवस्वतः ॥” तथा च महाभारते । ४ । १३ । १७ । “रतीव रूपिणी किन्त्वमनङ्गाङ्गविहारिणी । अतीव भ्राजसे सुभ्रु ! प्रभेवेन्दोरनुत्तमा ॥”)
गोपीविशेषः । यथा, —
“दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने । सद्योमत्शब्दमात्रेण तिरोधानं कृतं त्वया ॥ प्रभा देहं परित्यज्य जगाम सूर्य्यमण्डलम् । ततस्तस्याः शरीरञ्च तीव्रं तेजो बभूव ह ॥ संविभज्य त्वया दत्तं प्रेम्णाश्रु रुदता पुरा । विमृज्य चक्षुषोर्लोहं लज्जया मद्भयेन च ॥ हुताशनाय किञ्चिच्च नृपेभ्यश्चापि किञ्चन । किञ्चित् पुरुषसिंहेभ्यो देवेभ्यश्चापि किञ्चन ॥ किञ्चिद्दस्युजनेभ्यश्च नागेभ्यश्चापि किञ्चन । ब्राह्मणेभ्यो मुनिभ्यश्च तपस्विभ्यश्च किञ्चन ॥ स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किञ्चन । तच्च दत्त्वा तु सर्व्वेभ्यः पूर्ब्बं रोदितुमुद्यतः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ११ । ५७ — ६२ ॥ दुर्गा । यथा, —
“यमस्य भगिनी जाता यमुना तेन सा मता । प्रभा प्रसादशीलत्वात् ज्योत्स्ना चन्द्रार्क- मालिनी ॥” इति देवीपुराणे ४५ अध्यायः ॥ * ॥
(इयं हि सूर्य्यविम्बे एतनाम्ना कीर्त्त्यते । यथा, देवीभागवते । ७ । ३० । ८२ । “देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती । सूर्य्यविम्बे प्रभा नाम मातॄणां वैष्णवी मता ॥”)
सूर्य्यपत्नी । यथा, — सूत उवाच । “विवस्वान् कश्यपात् पूर्ब्बमदित्यामभवत् पुरा । तस्य पत्नीत्रयन्तद्वत् संज्ञा राज्ञी प्रभा तथा ॥ रेवतस्य सुता राज्ञी रेवन्तं सुषुवे सुतम् । प्रभा प्रभावं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम् ॥” इति मात्स्ये । ११ । २ — ३ ॥ (द्वादशाक्षरवृत्तिविशेषः । तल्लक्षणं यथा, वृत्त- रत्नाकरटीकायाम् । “वसुयुगविरतिर्ननौ रौ प्रभा ॥”)



Correction: