वाचस्पत्यम्
प्रभाकर || पु० प्रभां करोति कृ—ट । । १ सूर्य्ये २ वह्नौ ३ चन्द्रे ४ समुद्रे च शब्दर० । ५ अर्कवृक्षे अमरः । ६ मीमांसकभेदे स च गुरुत्वेन प्रसिद्धः । अत्रिवंश्ये ७ मुनिभेदे हरिवं० ३१ अ० । ८ कुशद्वीपस्थे वर्षभेदे भा० भी० १२ अ० । अष्टम- मन्वन्तरे ९ देवगणभेदे मार्क० पु० ८० अ० ।
शब्दकल्पद्रुमः
प्रभाकरः || पुं, (प्रभां करोतीति । कृ + “दिवा- विभानिशाप्रभेति ।” ३ । २ । २१ । इति टः ।)
सूर्य्यः । (यथा, रघौ । १० । ७४ । “कृशानुरपधूमत्वात् प्रसन्नत्वात् प्रभाकरः । रक्षोविप्रकृतावास्तामपविद्धशुचाविव ॥”)
अग्निः । चन्द्रः । (यथा, महाभारते । ७ । ९९ । ५ । “तावतीत्य रथानीकं विमुक्तौ परुषार्यभौ । ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ॥” “प्रभाकरौ चन्द्रसूर्य्यौ ॥”)
समुद्रः । इति शब्द- रत्नावली ॥ अर्कवृक्षः । इत्यमरः । १ । ३ । २८ ॥ (अष्टममन्वन्तरे देवगणभेदः । यथा, मार्कण्डेय- पुराणे । ८० । ६ । “तपस्तप्तश्च शक्रश्च द्युतिर्ज्योतिः प्रभाकरः ॥” अत्रिवंशीयमुनिविशेषः । यथा, हरिवंशे । ३१ । १० । “ऋषिर्जातोऽत्रिवंशे तु तासां भर्त्ता प्रभाकरः । भद्रायां जनयामास सुतसोमं यशस्विनम् ॥” नाभभेदः । यथा, महाभारते । १ । ३५ । १५ । “कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः ॥” मीमांसकप्रभेदः । स च गुरुत्वेन प्रसिद्धः । तस्य मतं दर्शनशास्त्रादौ प्राभाकरमतमिति प्रसिद्धम् । यदुक्तं वेदान्तसारे । ५३ । “प्राभाकर- तार्किकौ तु‘अन्योऽन्तरात्मा आनन्दमय’इत्यादि- श्रुतेः सुषुप्तौ बुद्ध्यादीनामज्ञाने लयदर्शनात् अहमज्ञोऽहं ज्ञानीत्याद्यनुभवाच्च अज्ञान- मात्मेति वदतः ॥” क्ली, कुशद्बीपस्थवर्षभेदः । यथा, मात्स्ये । १२१ । ६८ । “महिषं महिषस्यापि पुनश्चापि प्रभाकरम् ॥”)