वाचस्पत्यम्
प्रभाव || पु० प्र + भू—घञ् । राज्ञां काषदण्डजाते १ तेजसि अमरः २ तजसि ३ सामर्य्य हेमच० ४ विक्रमे ५ शान्तौ ६ उद्भवे च मेदि० । ७ स्वारोचिषमनोः पुत्रभेदे मार्क० पु० ६६ अ० । ८ वसुभेदे प्रभास इत्यत्र पाठान्तरम् ९ प्रभागर्भ- जाते सूर्य्यपुत्रभेदे प्रभाशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
प्रभावः || पुं, (प्र + भू + घञ् ।)
कोषदण्डजतेजः । तत्पर्य्यायः । प्रतापः २ । इत्यमरः । २ । ८ । २० ॥ “कोषो धनं दण्डो दमः तद्धेतुत्वात् सैन्यमपि दण्डः ताभ्यां यत्तेजो जायते स प्रतापः प्रभा- वश्च कथ्यते ।” इति भरतः ॥ शक्तिः । (यथा, —
“प्रभावतो यथा धात्री लकुचस्य रसादिभिः । समापि कुरुते दोषत्रितयस्य विनाशनम् ॥ क्वचित्तु केवलं द्रव्यं कर्म्म कुर्य्यात् प्रभावतः । ज्वरं हन्ति शिरोबद्धा सहदेवी जटा यथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
तेजः । इति हेमचन्द्रः । ३ । ४०४ ॥ (यथा, रामायणे । २ । २३ । ३८ । “अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति । राज्ञश्चाप्रभुतां कर्त्तुं प्रभुत्वञ्च तव प्रभो ! ॥”)
शान्तिः । इति मेदिनी । वे, ४० ॥ (प्रभागर्भ- जातः सूर्य्यपुत्त्रः । इति मात्स्ये । ११ । ३ ॥ कलावत्यां जातः स्वरोचिषो मनोः पुत्त्रविशेषः । यथा, मार्कण्डेये । ६६ । ५ । “ततश्च जज्ञिरे तस्य त्रयः पुत्त्राः स्वरोचिषः । विजयो मेरुनन्दश्च प्रभावश्च महाबलः ॥”)