वाचस्पत्यम्
प्रभावज || न० प्रभावात् जायते जन—ड । प्रमुशक्तिभेदे कोषदण्डाभ्यां साध्ये तेजसि ।
शब्दकल्पद्रुमः
प्रभावजः || पुं, (प्रभावात् जायते इति । जन् + डः ।)
शक्तिविशेषः । प्रभावो वीर्य्याधिक्यं तज्जातः । इत्यमरटीकासारसुन्दरी ॥ प्रभुत्व- साधकत्वात् दण्डकोषौ प्रभुशक्तिः । इति भरतः ॥ (प्रभावजाते, त्रि । यथा, —
“रसादिसान्ये यत् कर्म्म विशिष्टं तत् प्रभावजम् ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)