संस्कृत-शब्दकोशः

प्रभाष प्रभासन्त

प्रभास

वाचस्पत्यम्

प्रभास ||‍ त्रि० प्रभासते प्र + भास—अच् । १ प्रकृष्टदीप्तियुते २ जैन- नणाधिपभेदे पु० हेमच० । ३ कुमारानुचरगणभेदे पु० भा० श० ४६ अ० । ४ ऋषिभेदे पु० भा० शा० १६६ अ० । ५ वसुभेदे पु० हरिवं० ३ अ० सान्ततंया पाष्ठः । अष्टममन्वन्तरे ६ देवगणभेदे पु० मार्क० पु० ८० अ० । ७ सोमतीर्थभेदे त्रिका० “पुण्यं प्रभासं समुपाजगाम यत्रोडुराट् यक्ष्मणा क्लिश्य- मानः” इत्युपक्रमे एवं तु तीर्थप्रवरं पृथिव्यां प्रभास- नात्तस्य तु सः प्रभासः” इत्यादिना तत्तीर्थोत्पत्तिमाहा- त्म्यादिकथा भा० श० ३६ अ० आदौ दृश्या ।


शब्दकल्पद्रुमः

प्रभासः || पुं, (प्रभासते शोभते इति । प्र + भास् + अच् ।)
सोमतीर्थम् । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ३ । ८२ । ५६ — ५७ । “ततो गच्छेत राजेन्द्र ! प्रभासं तीर्थमुत्तमम् । तत्र सन्निहितो नित्यं स्वयमेव हुताशनः । देवतानां मुखं वीर ! ज्वलनोऽनिलसारथिः ॥ तस्मिंस्तोर्थे नरः स्नात्वा शुचिः प्रयतमानसः । अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥”)
जैनगणाधिपविशेषः । इति हेमचन्द्रः । १ । ३२ ॥ (वसुभेदः । यथा, मात्स्ये । ५ । २१ । “प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ॥”)



Correction: