संस्कृत-शब्दकोशः

प्रमथित प्रमदक

प्रमद

वाचस्पत्यम्

प्रमद ||‍ पु० प्र + मद—अप् । १ हर्ष अमरः । प्रमाद्यत्यनेन करणे अप् । २ धुस्तूरफले न० शब्दच० । कर्त्तरि अच् । ३ प्रमत्ते त्रि० मेदि० । ४ दैत्यभेदे पु० हरिवं० ३ अ० । तृतीयम- न्वन्तरे वासिष्ठे ५ सप्तर्षिभेदे पु० ।


शब्दकल्पद्रुमः

प्रमदः || पुं, (प्र + मद् + “प्रमदसंमदौ हर्षे ।” ३ । ३ । ६८ । इति अप् ।)
हर्षः । इत्यमरः । १ । ४ । २४ ॥ (यथा, कथासरित्सागरे । ६ । १६२ । “तच्छ्रुत्या मम राज्ञश्च विषादप्रमदौ द्वयोः । अभूतां मेघमालोक्य हंसचातकयोरिव ॥” प्रमाद्यत्यनेनेति । प्र + मद् + करणे अप् ।)
धुस्तूरफलम् । इति शब्दचन्द्रिका ॥ (दानव- विशेषः । यथा, हरिवंशे । ३ । ८७ । “प्रमदो मयः कुपयो हयग्रीवश्च वोर्य्यवान् ॥” वशिष्ठतनयानामन्यतमः । स तु उत्तममन्वन्तरे सप्तर्षिप्रभेदः । यथा, भागवते । ८ । १ । २४ । “वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः । सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥”)
प्रमाद्यतीति । प्र + मद् + कर्त्तरि अच् । यद्वा प्रकर्षेण मदोऽस्य ।)
मत्ते, त्रि । इति मेदिनी । दे, ७५ ॥ (यथा, रवौ । १९ । ३७ । “प्राविपि प्रमदवर्हिणेष्वभूत् कृत्रिमाद्रिषु विहारविभ्रमः ॥”)



Correction: