संस्कृत-शब्दकोशः

प्रमातामही प्रमाथ

प्रमातृ

वाचस्पत्यम्

प्रमातृ ||‍ त्रि० पुमिनोति प + मि—तृच् । प्रमाज्ञानकर्त्तरि । न्यायनये “यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स प्र- माता” वात्स्या० । सांख्यमते शुद्धचेतनो वृत्तिसाक्षी स । प्रमाणशब्दे तद्वाक्यम दृश्यम् । वेदान्तिमते “मेहातीतो विशुद्धो मुनिभिरभिहितो मौहसंक्रान्तमूर्त्तिः साक्षी संवित् प्रमा तत्प्रतिफलितवपर्गीयतेऽसौ प्रमाता” इत्यु- क्तदिशा अन्तःकरणवृत्तिप्रतिबिम्बितं तदवच्छिन्नं वा चैतन्यमेव प्रमाता ।



Correction: