वाचस्पत्यम्
प्रमाथ || पु० प्र + मथ—भावे घञ् । १ बलाद् हरणे २ प्रपीडने च । बा० कर्त्तरिण । ३ कुमारानुचरभेदे भा० श० ४६ अ० । स्वार्थे अण् । ४ शिवपारिषदप्रमथगणे पु० हरिवं० १८१ अ० ५ धृतराष्ट्रपुत्रभेदे पु० भा० द्रो० १५७ अ० ।
शब्दकल्पद्रुमः
प्रमाथः || पुं, (प्र + मथ् + भावे घञ् ।)
प्रम- थनम् । बलात् हरणम् । इति पुराणम् । (निपात्य भूमौ पेषणम् । यथा, महाभारते । ४ । १२ । २७ । “कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुशङ्कटैः । सन्निपातावधूतैश्च प्रमाथोन्माथनैस्तथा ॥” अस्य टीकायां नीलकण्ठेन मल्लशास्त्रात् एत- ल्लक्षणमुद्धृतम् । यथा, —
“निपात्य पेषणं भूमौ प्रमाथ इति कथ्यते ॥” कुमारस्यानुचरभेदः । यथा, महाभारते । ९ । ४५ । २९ । “ततः प्रादादनुचरौ यमः कालोपमाबुभौ । उन्माथञ्च प्रमाथञ्च महावीर्य्यौ महाद्युती ॥” शिवपारिषद्प्रमथगणः । यथा, हरिवंशे । १७८ । ५३ । “ते प्रदीप्तप्रहरणा दैत्यदानवराक्षसाः । प्रमाथगणमुख्याश्च प्रायुध्यन् कृष्णमव्ययम् ॥”)