वाचस्पत्यम्
प्रमित || त्रि० प्र + मि—मी वा क्त । १ ज्ञाते २ प्रथभावधारिते च जटा० । ३ परिमिते ।
शब्दकल्पद्रुमः
प्रमितः || त्रि (प्र + मि + क्तः । यद्वा, प्र + मा + क्तः । “द्यतिस्यतिमास्थेति ।” ७ । ४ । ४० । इतीत्वम् ।)
ज्ञातः । इति जटाधरः ॥ (अल्प- तमम् । इति विजयरक्षितः ॥ यथा, निदाने अर्शोरोगाधिकारे । “प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथुनसेवनम् ॥” परिमितम् । यथा, बृहत्संहितायाम् । १०४ । ३७ । “प्रमिताक्षराणि वदन् ॥”)