वाचस्पत्यम्
प्रमेह || पु० प्र + मिह—आधारे करणे वा थञ् । रोगमेदे तल्ल- क्षणभेदादिकं भावप्र० उक्तं यथा “आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदनानूपरसः प- यांसि । नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम् । मेदश्च मांसञ्च शरीरजञ्च क्लेदं कफोवस्तिगतं प्रदव्य । करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परि- दष्य चापि । क्षीणेषु दोषेष्ववकृष्य धातून् संदूष्य मेहान् कुरुतेऽनिलश्च । साध्याः कफोत्था दश पित्तजाः षट् याप्या- न साध्या पवनाच्चतुष्काः । समक्रियत्वाद्विषमक्रियत्वान्म- हात्ययत्वाच्च यथाक्रमन्ते । कफश्च पित्तं पवनश्च दोषा- मेदोऽस्रशुक्राम्बुबसाससीकाः । मज्जारसौजःपिशि- तञ्च दूष्याः प्रमेहिणां विंशतिरेव मेहाः । दन्तादीनां मलाढ्यत्वं प्राग्रूपं पानिपादयोः । दाहचिक्वणता देहे तृट्स्वाद्वास्यञ्च जायते । सामान्यं लक्षणं तेषां प्रभूताबिलमूत्रता० । दोषदूष्याविशेषेऽपि तत्संयोगविशे- षतः । मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते । अच्छं बहुतरं शीतं निर्गन्धसुदकोपमम् । मेहत्युदकमेहेन किञ्चिच्चाविलपिच्छिलम् । इक्षोरसमिवात्यर्थं मधुरञ्चे- क्षुमेहतः । सान्द्री भवेत् पर्युसितं सान्द्रमेहेन मेहति । सुरामेहि सुरातुल्यमुपर्यच्छमधोघनम् । संहृष्टरोमा पिष्टेन पिष्टवद्बहलं सितम् । शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति । मूर्त्तासून् सिकठामेही सिक- तारूपिणी मलान् । शीतमेही सुवहुशो मधुरं भृश- शीतलम् । शनैःशनैः शनैर्मेही मन्दं मन्दं प्रमेहति । लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् । गन्धव र्णरसस्पर्शौ क्षारेण क्षारतीयवत् । वीलमेहेन नीलाभं कालमेही मसीनिभम् । हारिद्रमेही कटुकं हरिद्रा- सन्निभं दहत् । विश्रं माञ्जिष्ठमेहेन मञ्जिष्टाशालिको- पमम् । विश्रमुस्तं सखबणं रक्ताभं रक्तमेहिनः । वशामेही वसामिश्वं वसाभं मूत्रयेन्मुहुः । मज्जामं मज्जमिश्रं वा मज्जमेही सुहुर्मुहुः । कष्न्धं मधुरं रूक्षं क्षौद्रमेहं वदेत् बुधः । हस्ती मत्त इवाजस्नं मूत्रयेगविवर्जितम् । सासमीकं विवद्धश्च हस्तिमेही प्रमेहति । अविपाकोऽरुचिश्छर्दिर्निद्राकासः सपीनसः । उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम् । वस्मिमेह- नयोस्तोदो मुष्कावदारणं ज्वरः! दाहतृष्णाम्लिकामू- र्च्छाविड्भेदः पित्तजन्मनाम् । पातजानासुदावर्त्तकम्पहृद्- ग्रहलोलताः । शूलमुन्निद्रता शोषः श्वासः कासश्च जा- यते । यथोक्तोपद्रवाविष्ठमतिप्रखुतमेव च । पिडका- पीडितं गाढं प्रमेहो हन्ति मानवम् । मूर्च्छाच्छर्दिज्व- रश्वासकासवीसर्पणौरवैः । उपद्रवैरुपेतो यः प्रमेही दुःप्रतिक्रियः । रजः प्रवर्त्तते यस्मान् मासि मासि विशोधयेत् । सार्वात् शरीरदोषांश्च न प्रमेहन्त्यतः स्त्रियः । जातः प्रमेहो मधुमेहिनो वा न साध्यरोगः सहि बी- जदोषात् । बे चापि केचित्कुकजा विकारा सवन्ति तां- क्ष्मापि वदन्त्यसाध्यान् । सर्वएव प्रमेहास्तु कामेनाप्रति- कारिणः । मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति च । मधुमेहो मधुनिभो जायते स किल द्विधा । क्रुद्धे घातुक्षयाद्वायौ दोषावृतपथेऽथ वा । आवृतो दोषलि ङ्गानि सोऽनिनित्तं प्रदर्शयन् । क्षीणक्षीणात् क्षणात् पूर्णो भजते कृच्छ्रसाध्यताम् । मधुरं यच्च सर्वेषु प्रायो मध्विव मेहति । सर्वेऽपि मघुमेहाख्यं माधुर्य्याच्च तनो- रतः । शराविकाकच्छपिका जालिनी विनतालजी । मसूरिका सर्षपिका पुत्रिणी सविदारिकाः । विद्रधि- श्चेति पिडकाः प्रमेहोपेक्षया दश” । तद्रोगनिमित्तकर्मभेद शा० त० उक्तः । कर्मविपाकशब्दे १०७६ पृ० दृश्यम् । तत्र मधुमेहस्यैव महारोगभेद- रूपता “मधुमेहभगन्दरौ” इत्युक्तेः ।
शब्दकल्पद्रुमः
प्रमेहः || पुं, (प्रकर्षेण मेहति क्षरति वीर्य्यादिरने- नेति । प्र + मिह क्षरणे + करणे घञ् ।)
रोगविशेषः । तत्पर्य्यायः । मेहः २ मूत्रदोषः ३ । इति राजनिर्घण्टः ॥ बहुमूत्रता ४ । इति हेमचन्द्रः । ३ । १३४ ॥ अस्य निदानम् । “आस्यासुखं खप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि । नवान्नपानं गुडवैकृतञ्च प्रमेहहेतुः कफकृच्च सर्व्वम् ॥” * ॥
अस्य सम्प्राप्तिर्यथा, —
“मेदश्च मांसञ्च शरीरजञ्च क्लेदं कफो वस्तिगतः प्रदूष्य । करोति मेहान् समुदीर्णमुष्णै- स्तानेव पित्तं परिदूष्य चापि ॥” * ॥
वातिकस्य तस्य लक्षणम् । “क्षीणेषु दोषेष्ववकृष्य धातून् सन्दूष्य मेहान् कुरुतेऽनिलश्च ॥” * ॥
तस्य कफजादिभेदेन साध्यादिलक्षणम् । यथा, “साध्याः कफोत्था दश पित्तजाः षट् याप्या न साध्याः पवनाच्चतुष्काः । समक्रियत्वाद्विषमक्रियत्वा- न्महात्ययत्वाच्च यथाक्रमन्ते ॥ कफः सपित्तः पवनश्च दोषा मेदोऽस्रशुक्राम्बुवसालसीकाः । मज्जा रसौजः पिशितञ्च दूष्याः प्रमेहिणां विंशतिरेव मेहाः ॥” * ॥
तस्य पूर्ब्बरूपम् । “दन्तादीनां मलाढ्यत्वं प्राग्रूपं पाणिपादयोः । दाहश्चिक्कणता देहे तृट् स्वाद्बास्यञ्च जायते ॥ सामान्यं लक्षणं तेषां प्रभूताविलमूत्रता । दोषदूष्या विशेषेऽपि तत्संयोगविशेषतः । मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते ॥” * ॥
क्रमेण कफजानां दशानां लक्षणानि । “अच्छं बहुसितं शीतं निर्गन्धमुदकोपमम् । मेहत्युदकमेहेन किञ्चिदाविलपिच्छिलम् ॥ इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः । सान्द्री भवेत् पर्य्युषितं सान्द्रमेहेन मेहति ॥ सुरामेही सुरातुल्यमुपर्य्यच्छमधोघनम् । संहृष्टलोमा पिष्टेन पिष्टवद्बहुलं सितम् ॥ शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति । मूर्त्ताणून् सिकतामेही सिकतारूपिणो मलान् ॥ शीतमेही सुबहुशो मधुरं भृशशीतलम् । शनैः शनैः शनैर्मेही मन्दं मन्दं प्रमेहति ॥ लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् ॥” क्रमेण पित्तजानां षण्णां लक्षणानि । “गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत् ॥ नीलमेहेन नीलाभं कालमेही मसीनिभम् । हारिद्रमेही कटुकं हरिद्रासन्निभं दहत् ॥ विस्रं माञ्जिष्ठमेहेन मञ्जिष्ठासलिलोपमम् । विस्रमुष्णं सलवणं रक्ताभं रक्तमेहतः ॥” * ॥
क्रमेण वातजानां चतुर्णां लक्षणानि । “वसामेही वसामिश्रं वसाभं मूत्रयेन्मुहुः । मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः ॥ कषायं मधुरं रूक्षं क्षौद्रमेहं वदेद्बुधः । हस्ती मत्त इवाजस्रं मूत्रं वेगविवर्ज्जितम् । सलसीकं विबद्धञ्च हस्तिमेही प्रमेहति ॥” * ॥
कफजादिभेदेन तेषामुपद्रवाः । “अविपाकोऽरुचिच्छर्द्विर्निद्रानाशः सपीनसः । उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम् ॥ वस्तिमेहनयोस्तोदो मुष्कावदरणं ज्वरः । दाहस्तृष्णाम्लिका मूर्च्छा विड्भेदाः पित्तजन्म- नाम् ॥ वातजानामुदावर्त्तः कम्पहृद्ग्रहलोलताः । शूलमुन्निद्रता शोषः कासः श्वासश्च जायते ॥” अरिष्टलक्षणम् । “यथोक्तोपद्रवारिष्टमतिप्रस्रुतमेव च । पिडकापीडितं गाढं प्रमेहो हन्ति मानवम् ॥ जातः प्रमेही मधुमेहिनो वा न साध्यरोगः स हि बीजदोषात् । ये चापि केचित् कुलजा विकारा भवन्ति तांश्च प्रवदन्त्यसाध्यान् ॥ * ॥
सर्व्व एव प्रमेहास्तु कालेनाप्रतिकारिणः । मधुमेहत्वमायान्ति तदासाध्या मवन्ति हि ॥ मधुमेहे मधुसमं जायते स किल द्विधा । क्रुद्धे धातुक्षयाद्बायौ दोषावृतपथेऽथवा ॥ आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयन् । क्षीणः क्षणात् क्षणात् पूर्णो भजते कृच्छ्र- साध्यताम् ॥ मधुरं यच्च मेहेषु प्रायो मध्विव मेहति । सर्व्वेऽपि मधुमेहाख्या माधुर्य्याच्च तनोरतः ॥ * ॥
प्रमेहिणो यदा मूत्रमनाविलमपिच्छलम् । विषदं तिक्तकटुकं तदारोग्यं प्रचक्षते ॥” इति माघवकरः ॥ अस्य दशविधपिडकाः पिडकाशब्दे द्रष्टव्याः ॥ अथ प्रमेहस्य चिकित्सा । “श्यामाककोद्रवोद्दाला गोधूमचणकावटी । कुलत्थाः कथिता भोज्ये पुराणा मेहिनां हिताः ॥ यवान्नविकृतिर्मुद्राः शालयः षष्ठिकास्तथा । तथा तिक्तानि शाकानि जाङ्गलाः पक्षिणो मृगाः ॥ उद्दालो वनकोद्रवः ॥ * ॥
प्रमेही गुडदुग्धान्यतैलतक्रसुराः सदा । अम्लेक्षुरसपिष्टान्नानूपमांसानि वर्ज्जयेत् ॥ * ॥
मुस्ताहरीतकीलोध्रः कट्फलेन कृतं सृतम् । पीतं मधुयुतं हन्ति प्रमेहं कफहेतुकम् ॥ * ॥
पटोलनिम्बामलकामृतानां पिबेत् कषायं मधुना समेतम् । उशीरलोध्रार्ज्जुनचन्दनानां तथा पिबेत् पित्तनिमित्तमेही ॥ * ॥
पाठाशिरीषदुःस्पर्शाजातितिन्दुककिंशुकैः । कपित्थस्य भिषक् क्वाथं हस्तिमेहे प्रयोजयेत् ॥ पाठादिभिः सहितस्य कपित्थस्य क्वाथम् । गुडूच्याः स्वरसः पेयो मधुना सर्व्वमेहजित् । हरिद्राचूर्णयुक्तो वा रसो धात्र्याः समाक्षिकः ॥ मधुना त्रैफलं चूर्णमथवाश्मजतूद्भवम् । लोहजं वाभयोत्थं वा लिह्यान्मेहनिवृत्तये ॥ * ॥
चन्द्रप्रभावचामुस्ताभूनिम्बसुरदारवः । हरिद्रातिविषा दार्व्वी पिप्पलीमूलचित्रकम् ॥ त्रिवृद्दन्ती पत्रकञ्च त्वगेला वंशलोचना । प्रत्येकं कर्षमात्राणि कुर्य्यादेतानि बुद्धिमान् ॥ धान्यकं त्रिफला चव्यं विडङ्गं गजपिप्पली । सुवर्णमाक्षिकं व्योषं द्वौ क्षारौ लवणत्रयम् ॥ एतानि टङ्कमात्राणि संगृह्णीयात् पृथक् पृथक् । द्विकर्षहतलोहं स्याच्चतुष्कर्षा सिता भवेत् ॥ शिलाजत्वष्टकर्षं स्यादष्टौ कर्षाश्च गुग्गुलोः । विधिना योजितैरेतैः कर्त्तव्या गुटिका शुभा ॥ चन्द्रप्रभातिविख्याता सर्व्वरोगप्रणाशिनी । निहन्ति विंशतिं मेहान् कृच्छ्रमष्टविधं तथा ॥ चतस्रश्चाश्मरीस्तद्वन्मूत्राघातांस्त्रयोदश । अण्डवृद्धिं पाण्डुरोगं कामलाञ्च हलीमकम् ॥ कासं श्वासं तथा कुष्ठमग्निमान्द्यमरोचकम् । वातपित्तकफव्याधीन् बल्या वृष्या रसायनी ॥ समाराध्य शिवं तस्मात् प्रयत्नाद्गुटिकामिमाम् । प्राप्तवांश्चन्द्रमा यस्मात् तस्माच्चन्द्रप्रभा स्मृता ॥ चन्द्रप्रभाकचूर इति लोके । व्योषं त्रिकटु । द्वौ क्षारौ सर्जिकायवक्षारौ । लवणत्रयम् । सैन्धवं रुचकञ्चापि विडञ्च लवणत्रयमिति चन्द्र- प्रभादिर्वटिका ॥ * ॥
प्रमेहपिडकानां प्राक् कार्य्यं रक्तविमोचनम् । पाटनञ्च विपक्वानां ततो व्रणविधिः स्मृतः ॥” इति भावप्रकाशः ॥ (अस्य सकारणपूर्ब्बरूपसम्प्राप्तयस्तथोपद्रवश्च । यथा, —
“त्रिदोषकोपननिमित्ता विंशतिप्रमेहविकारा- श्चापरेऽपरिसङ्ख्येयाः । तत्र यथा त्रिदोषप्रकोप- प्रमेहानभिनिर्वर्त्तयति तथानुव्याख्यास्यामः । इह खलु निदानदोषदूष्यविशेषेभ्यो विकाराणां विघातभावाभावप्रतिविशेषा भवन्ति । यदा ह्येते त्रयो निदानादिविशेषाः परस्परं नानु- वध्नन्त्ययथाप्रकर्षादबलीयांसो वानुबध्रन्ति न तदा विकाराभिनिर्वृत्तिः । चिराद्वाप्यभिनिर्व- र्त्तन्ते तनवो भवन्त्यथवाप्ययथोक्तसर्व्वलिङ्गा विपर्य्ययेण विपरीता इति सर्व्वविकारविघात- भावाभावप्रतिविशेषाभिनिर्वृर्त्तिहेतुरुक्तः । तत्र इमे निदानादि विशेषाः श्लेष्मनिमित्तानां प्रमेहाणामाश्वमिनिवृत्तिकरास्तद्यथा हाय- नकयवचीनकोद्दालकनैषधोत्कटमुकुन्दक महा- व्रीहिप्रमोदकसुगन्धकानां नवानामतिवेलमति- प्रमाणेनोपयोगः । तथा सर्पिष्मतां नवहरेणु- माषसूपानां ग्राम्यानूपौदकानां मांसानां शाक- तिलपललपिष्टान्नपायसकृशरविलेपीक्षुविका- राणां क्षीरमन्दकदधिद्रवमधुरतरुणप्रायाणा- मुपयोगो मृजाव्यायामवर्ज्जनस्वप्नशयनासन- प्रसङ्गो यश्च कश्चिद्विधिरन्योऽपि श्लेष्ममेहो मूत्रसञ्जननः सर्व्वः सनिदानविशेषः । बहुद्रवश्लेष्मा दोषविशेषः बहुबन्धं मेदः मांसञ्च शरीरक्लेदः शुक्रं शोणितञ्च वसामज्जालसीका रसश्चौजः सङ्ख्याता इति दूष्यविशेषाः । त्रयाणामेषां निदानादिविशेषाणां सन्निपाते क्षिप्रं श्लेष्माप्रकोपमापद्यते प्रागतिभूयस्त्वात् । स प्रकुपितः क्षिप्रमेव शरीरे विसृप्तिं लभते । शरीरशैथिल्यात् स विसर्पं शरीरे मेदसैवा- दितो मिश्रीभावं गच्छति । मेदसश्चैव बहु- बन्धत्वान्मेदसश्च गुणानां गुणैः समानगुणभूयि- ष्ठत्वात् स मेदसा मिश्रीभावं गच्छन् दूषयत्येत- द्विकृतत्वात् स घिकृतो दुष्टेन मेदसोपहितः शरीरक्लेदमांसाभ्यां संसर्गं गच्छति । क्लेद- मांसयोरतिप्रमाणाभिवृद्धित्वात् स मांसे मांस- प्रदोषात् पूतिमांसपिडकाः शराविका कच्छपि- काद्याः सञ्जनयत्यप्रकृतिभूतत्वात् शरीरक्लेदं पुनर्दूषयन् मूत्रत्वेन परिणमयति । मूत्रवहानां स्रोतसां वङ्क्षणवस्तिप्रभवानां मेदःक्लेदोपहि- तानि गुरूणि मुखान्यासाद्य प्रतिरुध्यते । ततः स्थैर्य्यं साध्यतां वा जनयति प्रकृतिविकृति- भूतत्वात् । शरीरक्लेदस्तु श्लेष्ममेदोमिश्रः प्रविशन् मूत्राशये मूत्रत्वमापद्यमानः श्लैष्मिकैरेभिर्दशभिर्गुणैरुप- सृज्यते वैषम्यहानिवृद्धियुक्तैस्तद्यथा श्वेतशीत मूर्त्तपिच्छिलाच्छस्निग्धगुरुमधुरसान्द्रप्रसादमर्द्दै- स्तत्र येन गुणेनैकेनानेकेन वा भूयस्तरमुप- सृज्यते । तत्समाख्यं गौणं नामविशेषं प्राप्नोति । ते तु खल्विमे दशप्रमेहा नाम विशेषेण भवन्ति । तथा उदकमेहश्चेक्षुरालिकारसमेहश्च सान्द्रमेहश्च सान्द्रप्रसादमेहश्च शुक्लमेहश्च शुक्र- मेहश्च शीतमेहश्च सिकतामेहश्च शनैर्मेहश्च लालामेहश्चेति । ते दशप्रमेहाः साध्याः समानगुणमेदःस्थानत्वात् कफस्य प्रधान्यात् समानक्रियत्वाच्च ।” “उष्णाम्ललवणक्षारकटुकाजीर्णभोजनोपसेवि- नस्तथातितीक्ष्णातपाग्निसन्तापश्रमक्रोधविषमा- हारोपसेविनश्च तषात्मकशरीरस्यैव क्षिप्रं पित्तं प्रकोपमापव्यते । तत् प्रकुपितं तत्रैवानुपूर्ब्ब्या प्रमेहानिमान् षट् क्षिप्रमभिनिर्वर्त्तयति । तेषामपि च पित्तगुण- विशेषेण नामविशेषाः । तद्यथा, — क्षारप्रमेहश्च कालमेहश्च नीलमेहश्च लोहितमेहश्च मज्जिष्ठा- मेहश्च हारिब्रमेहश्चेति ते षड्भिरेव क्षाराम्ल- लवणकटुकविम्रोष्णैः पित्तगुणैः पूर्ब्बवत् सम- न्विताः । सर्व्व एव ते याप्याः संसृष्टदोषमेदः- स्थानत्वात् विरुद्धोपक्रमत्वाच्चेति ।” “कटुककषायतिक्तरुक्षलघुशीतव्यवायव्यायाम- वमन-विरेचनास्थापन-शिरोविरेचनातियोग- सन्धारणानशनाभिघातातपोद्वेगशोकशोणिता- तिसेकजागरणविषमशरीरन्यासानुपसेवमानस्य तथात्मकशरीरस्यैव क्षिप्रं वायुः प्रकोपमाप- द्यते । स प्रकुपितस्तथात्मके शरीरे विसर्पन् यदा वसामादाय मूत्रवहानि स्रोतांसि प्रति- पद्यते तदा वसामेहमभिनिर्वर्त्तयति ॥ * ॥
यदा पुनर्मज्जानं मूत्रवस्तावाकर्षति तदा मज्ज- मेहमभिनिर्वर्त्तयति ॥ * ॥
यदा लसीकां मूत्रा- शयेऽभिवहन् मूत्रमनुबध्नंश्च्योतयति । लसी- कातिबहुत्वाद्विक्षेपणाच्च वायोः खल्वस्याति- मूत्रप्रवृत्तिसङ्गं करोति । तदा स मत्त इव गजः क्षरत्यजस्रं मूत्रमवेगं तं हस्तिमेहिनमा- चक्षते ॥ * ॥
ओजः पुनर्मधुरस्वभावं तद्रौ- क्ष्वाद्वायुः कषायत्वेनाभिसंसृज्य मूत्राशयेऽभि- वहति तदा मधुमेहं करोति ॥ * ॥
तानिमांश्चतुरः प्रमेहान् वातजानसाध्याना- चक्षते । महात्ययिकत्वाद्विप्रतिषिद्धोपक्रमत्वात् तेषामपि च पूर्ब्बवत् गुणविशेषेण नामविशेषाः । तद्यथा, — वसामेहश्च मज्जमेहश्च हस्तिमेहश्च मधुमेहश्चेति ।” “त्रयस्तु दोषाः प्रकुपिताः प्रमेहानभिनिर्वर्त्तयि- ष्यन्त इमानि पूर्ब्बरूपाणि दर्शयन्ति । तद्- यथा, — जटिलीभावं केशेषु माधुर्य्यमास्ये कर- पादयोः सुप्ततां दाहः मुखतालुकण्ठशोषं पिपासामालस्यं मलञ्च काये कायच्छिद्रेषूपदेहं परिदाहं सुप्ततां चाङ्गेषु षट्पदपिपीलिकाभिः शरीरमूत्राभिसरणं मूत्रे च मूत्रदोषान्वितं शरीरगन्धं निद्रां तन्द्राञ्च सर्व्वकालमिति । उपद्रवास्तु खलु प्रमेहिणां तृष्णातीसारज्वर- दाहदौर्ब्बल्यारोचकाविपाकाः पूतिमांसपिडका अलजीविद्रध्यादयश्च तत् प्रसङ्गाद्भवन्ति । तत्र साध्यान् प्रमेहान् संशोधनोपशमनैर्यथार्ह- मुपपादयेच्चिकित्सेदिति ।” इति चरके निदान- स्थाने चतुर्थेऽध्याये ॥)