संस्कृत-शब्दकोशः

प्रमोचनी प्रमोदन

प्रमोद

वाचस्पत्यम्

प्रमोद ||‍ पु० प्र + सुद—हर्षे भावे घञ् । १ हर्षे प्रियलाभनिमित्ते प्रकृष्टहर्षे आनन्दशब्दे ७१७ पृ० तैत्ति० उ० भाष्यवाक्यं दृश्यम् । गकृष्टो मोदोयस्य प्रा० व० । २ प्रमोदयुते त्रि० ३ ना- गभेदे पु० भा० आ० ५७ अ० । ४ स्कन्दानुचरभेदे पु० भा० श० ४६ अ० । सा० त० कौ० उक्ते ५ मुख्यसिद्धिभेदे “तिस्रश्च मुख्याः सिद्धयः प्रमोदसुदितमोदमानाः” । तत्राध्या- त्यिकदुःश्चविथातस्य वृर्वोत्कर्षेण इष्टत्वात् प्रमोदत्वं बोध्यम् । आभिमौतिकंदुःखविघातस्य मोदाधारत्वात् मुदितत्वम आधिदैविकदुःस्वविघातस्य मोदमानत्वं मोदस्य मानं भागं यत्रेति व्युत्पत्त्येति विबेकः ।


शब्दकल्पद्रुमः

प्रमोदः || पुं, (प्र + मुद् हर्षे + भावे घञ् ।)
हर्षः । इत्यमरः । १ । ४ । २४ ॥ (यथा, देवीभाग वते । ४ । २४ । ५५ । “उत्पाद्य पुत्त्रजननप्रभवं प्रमोदं दत्त्वा पुनर्विरहजं किल दुःखभारम् । त्वं क्रीडसे सुललितैः स्वलु तैर्विहारै- र्नोचेत् कथं मम सुताप्तिरतिर्वृथा स्यात् ॥” आमोदः । स तु गन्धविशेषः । यथा, भाग- वते । २ । ६ । २ । “अश्विनोरोषधीनाञ्च घ्राणो मोदप्रमोदयोः ॥” “मोदप्रमोदयोः सामान्यविशेषगन्धयोः घ्राणे- न्द्रियं परमायनम् ।” इति तट्टीकायां श्रीधर- स्वामी ॥ नागविशेषः । यथा, महाभारते । १ । ५७ । ११ । “विहङ्गः शरभो मेदः प्रमोदः संहतापनः ॥” स्कन्दानुचरविशेषः । यथा, तत्रैव । ९ । ४५ । ६३ । आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा ॥”)



Correction: