वाचस्पत्यम्
प्रयत || त्रि० प्र + यम—कर्त्तरि क्त । १ पवित्रे संयते अमरः । प्र + यत—अच् । २ प्रयत्रविशिष्टे त्रि० । प्रपूर्वक यमेर्दानार्थ- कात् कर्मणि क्त । ३ दत्ते च । “प्रयतदक्षिणम्” ऋ० १३१ । १५
शब्दकल्पद्रुमः
प्रयतः || त्रि (प्र + यम् + क्तः । यद्वा, प्रयतते धर्म्माद्यर्थमिति । प्र + यत् + अच् ।)
पवित्रः । इत्यमरः । २ । ७ । ४५ ॥ (यथा, मनुः । २ । १८३ । “ब्रह्मचार्य्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥” नम्रः । इति रामायणटीकायां रामानुजः ॥ यथा, रामायणे । १ । २ । २४ । “वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः । प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥” प्रयत्नविशिष्टे च ॥)