संस्कृत-शब्दकोशः

प्रयत प्रयत्नवत्

प्रयत्न

वाचस्पत्यम्

प्रयत्न ||‍ पु० प्र + यत—भावे नङ् । प्रयासे । स च न्यायमते त्रिविधः यथा “प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकार- णम । एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम् । चि- कीर्षाकृतिसाध्येष्टसाधनत्वमतिस्तथा । उपादानस्य चा- ध्यण प्रवृत्तौ जनकं भवेत् । निवृत्तिस्तु भवेद्द्वेषात् द्विष्ट- साधनताधियः । यत्रो जीवनयोनिस्तु सर्वदाऽतीन्त्रियी भवेत् । शरीरे प्राणसञ्चारे कारणं तत्प्रकीर्त्तितम्” भाषा० “प्रयत्रस्तु फलावाप्त्यै व्याषारोऽतित्यरान्वितः” सा० द० उक्ते २ फलार्थिभिः प्रारब्धस्य कर्मणोऽवस्थापञ्चकान्तर्गते- ऽवस्थाभेदे ततोऽस्त्यर्थे मतुप् मस्य वः । प्रयत्नवत् तद्युक्ते त्रि० त्रिका० स्त्रियां ङीप् ।


शब्दकल्पद्रुमः

प्रयत्नः || पुं, (प्र + यत यत्ने + “यजयाचयतविच्छ- प्रच्छरक्षो नङ् ।” ३ । ३ । ९० । इति नङ् ।)
प्रकृष्टयत्नः । (यथा, मनुः । ७ । ६८ । “बुद्ध्वा च सर्व्वं तत्त्वेन परराजचिकीर्षितम् । तथा प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत् ॥”)
न्यायमते स च त्रिविधः । यथा, —
“प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् । एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम् ॥ चिकीर्षा कृतिसाध्येऽष्टसाधनत्वमतिस्तथा । उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥ निवृत्तिस्तु भवेद्द्वेधा द्विष्टसाधनताधियः । यत्नो जीवनयोनिस्तु सर्व्वदातीन्द्रियो भवेत् ॥ शरीरे प्राणसञ्चारे कारणं तत् प्रकीर्त्तितम् ॥” इति भाषापरिच्छेदः ॥ (तल्लक्षणं यथा, साहित्यदर्पणे । “प्रयत्नस्तु फलावाप्त्यै व्यापारोऽतित्वरान्वितः ॥”)



Correction: