वाचस्पत्यम्
प्रयोगातिशय || पु० सा० द० नाटकाङ्गप्रस्तावनाभेदे “यदि प्र- योग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते । तेन पात्रपवेश- श्चेत् प्रयोगातिशयस्तदा” । यथा कुन्दमालायाम् “नेपथ्ये इतोऽवतरत्वार्य्या । सूत्रधारः । कोऽयं खलु आर्य्याह्वानेन साहायकं मे सम्पादयति । विलोक्य । कष्टमतिकरुणं व- र्त्तते । लङ्केश्वास्य भवने सुचिरं स्थितेति रामेण लोक- प्ररिवादभयाकुलेन । निर्वासितां जनपदादपि गर्भगुर्वीं सीतां वनाय परिकर्षति लक्ष्मणोऽयम्” । अत्र नृत्यप्रयो- गार्थं स्वभार्य्याह्वानमिच्छता सूत्रधारेण सीतां वनाय परिकर्षति लक्ष्मणोऽयमिति सीतालक्ष्मणयोः प्रवेशं सूचयित्वा निष्कान्तेन स्वप्रयोगमतिशयान एव प्रयोगः प्रयोजितः” ।