संस्कृत-शब्दकोशः

प्रयोग प्रयोगातिशय

प्रयोगविधि

वाचस्पत्यम्

प्रयोगविधि ||‍ पु० प्रयोगज्ञापकोविधिः शा० त० । प्रयोगस्यावि लम्बज्ञापके विधिभेदे तल्लक्षणादि लौगाक्षि० उक्तं यथा “प्रयोगप्राशुभावबोधको विधिः गयोगविधिः । स चाङ्ग वाक्यैकवाक्यतापन्नः प्रधानविधिरेव । स हि साङ्गवधा- नमनुष्ठापयन् विलम्बे प्रमाणाभावादविलम्यापरपर्य्यायं प्रयोगप्राशुभावं विधत्ते । न च तदविलव्येऽपि प्रमा- णाभाव इति वाच्यं विलम्बे ह्यङ्गप्रधानविध्येकवाक्यता- वगततत्साहित्यानुपपत्तिः विलग्वेन क्रियमाणयोः प- दार्थयोः इदमनेन सह कृतमिति साहित्यव्यवहाराभा- वात् । स चाविलग्नो नियते क्रमे आश्रियमाणे भवति । अन्यथा हि किमेतदनन्तरमेतत् कर्त्तव्यमेतदनन्तरं वेति प्रयोगविक्षेपापत्तेः । अतः प्रयोगविधिरेव स्वविधेय प्रयोगप्राशुभविध्यर्थं नियतं क्रभमपि पदार्थविशेषण तया विधत्ते । अतएवाङ्गानां क्रमबोधको विधिः प्र- योगविधिरित्यपि लक्षणम् । तत्र क्रमोनाम विततिवि- शेषः पौर्वापर्य्यरूपो वा । तत्र षट् प्रमाणानि । श्रुत्यर्थ- पठनस्थानमुख्यप्रवृत्त्याख्यानि । क्रमज्ञापकहेतवश्च क्रम- शब्दे २२९० पृष्ठादावुक्ताः ।



Correction: