वाचस्पत्यम्
प्रयोजक || त्रि० कार्य्यादौ भृत्यादीन् प्रयुनक्ति प्र + युज—ण्वुल् । निकृष्टस्य भृत्यादेः १ प्रेरके व्याकरणोक्ते हेतुसंज्ञे २ कर्त्तरि च । “तत्प्रयोजकोहेतुश्च” पा० तस्य स्वतन्त्रसंज्ञा वि- हिता । प्रयोजकस्य हन्तृत्वं प्रा० वि० निर्णीतं यथा “नरान्तरव्यापाराव्यवधानेन बधनिष्पादकः कर्त्ता,यः कर्त्तारं कारयति स प्रयोजकः । सोऽपि द्विविधः एकः स्वतोऽप्रवृत्तं पदातिं वेतनादिना वधार्थं प्रवर्त्तयति अपरः स्तृतः प्रवृत्तमेव मन्त्रोपायोपदेशादिना प्रोत्साहयति” । तस्य मूलञ्च आपस्तम्बवाक्यं यथा “प्रयोजयिता अनु- मन्ता कर्त्ता चेति सर्वे स्वर्गनरकफलभोक्तारो यो भूय आरभते तस्मिन् फले विशेषः” । तस्य भावः त्व प्रयोज कत्व न० तद्भावे तच्च स्वरूपसम्बन्धभेदः तन्निष्ठान्त्यथासि- द्धिभिन्नान्यथासिद्धिशून्यत्वे सति कार्य्याव्यवहित पूर्वव- र्त्तित्वम्” ।
शब्दकल्पद्रुमः
प्रयोजकः || त्रि (प्रयुनक्ति प्रेरयति कार्य्यादौ भृत्यादीनिति । प्र + युज् + ण्युल् ।)
प्रयोग- कर्त्ता । नियोगकर्त्ता । स्वतन्त्रतत्प्रयोजकौ कर्त्ता । इति सुपद्मव्याकरणम् ॥ (यथा, राजतर- ङ्गिण्याम् । ६ । ११९ । “यान् द्रोहभीरून् सम्भाव्य संविभेजे यशस्करः । तस्य तत्तनयोच्छेदे त एवासन् प्रयोजकाः ॥” नियन्ता । यथा, याज्ञवल्क्ये । १ । ५ । ० “शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥”)