वाचस्पत्यम्
प्ररूढ || त्रि० प + रुह—क्त । १ प्ररोहणकर्त्तरि २ सजाते वृक्षादौ ३ बद्धमूले च ४ जटरे न० मेदि० । ५ जाते ६ प्रबुद्धे त्रि० शब्दमा० ।
शब्दकल्पद्रुमः
प्ररूढः || त्रि (प्र + रुह् + क्तः ।)
बद्धमूलः । इति मेदिनी । ढे, ८ ॥ (यथा, भागवते । ४ । १३ । १ । “प्ररूढभावो भगवत्यधोक्षजे प्रष्टुं पुनस्तं विदुरः प्रचक्रमे ॥”)
जातः । (यथा, रघुः । १३ । ६ । “नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ॥”)
प्रवृद्धः । इति शब्दरत्नावली ॥
शब्दकल्पद्रुमः
प्ररूढः || पुं, (प्ररोहत्यत्रेति । प्र + रुह + क्तः ।)
जठरम् । इति मेदिनी । ढे, ८ ॥ (क्वचित् जर- ठोऽपि पाठः ॥)