वाचस्पत्यम्
प्ररोचन || न० प्र + रुच—णिच्—भावे ल्युट् । १ रुचिसम्पादने यथाऽर्थवादादीनां विध्यर्थानष्ठाने प्ररोघनार्था प्रवृत्तिः । युच् प्ररोचना तत्रार्थे स्त्री । सा च २ पस्तावनाङ्गभेदे । “तस्याः प्ररोचना वीथी तथा प्रहसना मुखे । अङ्गा- थत्रोन्मुखीकारः प्रशंसातः प्ररोचना” सा० द० यथा “श्रीहर्षोनिपुणः कविरित्यादि रत्न्याबल्याम् । ३ नाट- काङ्गविमर्षाङ्गभेदे स्त्री “परोचना विमर्षे स्यात्” विमर्षा- ङ्गोपक्रमे “प्ररोचना तु विज्ञेया संहारार्थप्रदर्शिनी” इति तत्र लक्षिता यथा वेण्यां पाञ्चालकः अहं देवेन चक्रपाणिना सहित इत्युपक्रमे कृतं सन्देहेन पूर्य्यन्तां सलिलेनेत्यादि ।