वाचस्पत्यम्
प्रवाह || पु० प्र + वह—घञ् । १ प्रवृत्तौ २ जलादिस्रोतसि मेदि० २ व्यवहारे विश्वः ४ उत्तमाश्वे नानार्थरत्ना० । ५ स- न्ततौ कालेन देशेन वा विच्छेदाभावे “प्रवाहरूपेणानादि”
शब्दकल्पद्रुमः
प्रवाहः || पुं, (प्र + वह् + भावे घञ् ।)
प्रवृत्तिः । (यथा, भागवते । ७ । ९ । ८ । “सत्त्वैकतानगतयो वचसां प्रवाहैः ॥” जलस्रोतः । इति मेदिनी । हे, २१ ॥ (यथा, रघौ । ५ । ४६ । “पूर्ब्बं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प ॥”)
व्यवहारः । इति विश्वः ॥ प्रकृष्टाश्वः । इति नानार्थरत्नमाला ॥ (पुरीषादेर्निगमः । यथा, सुश्रुते उत्तरतन्त्रे । ४० अध्याये । “प्रवाहेण गुदभ्रंशे मूत्राघाते कटिग्रहे । मधुराम्लशृतं तैलं सर्पिर्वाप्यनुबासनम् ॥”)