वाचस्पत्यम्
प्रवृत्त || त्रि० प्र + वृत—कर्त्तरि क्त । १ कृतप्रवृत्तिके प्रवृत्तियुते २ आरब्धे च “प्रवृत्तमन्यथा कुर्य्यात् यदि मोहात् कथञ्चन” छन्दोगप० । ३ प्रवृत्तिलक्षणे थर्मभेदे । भावे क्त । ४ प्रवृत्तौ न० ।
शब्दकल्पद्रुमः
प्रवृत्तः || त्रि (प्रवर्त्तते स्मेति । प्र + वृत् + क्तः ।)
प्रवृत्तिविशिष्टः । यथा, —
“ववृत्त एव स्वयमुज्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामसि । तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥” इति शिशुपालबधे । १ । ४० ॥ आरम्भः । यथा, —
“प्रवृत्तमन्यथा कुर्य्यात् यदि मोहात् कथञ्चन । यतस्तदन्यथा भूतं तत एव समापयेत् ॥” इति छन्दोगपरिशिष्टम् ॥ प्रकृष्टवर्त्तनविशिष्टश्च ॥ (यथा, रामायणे । ७ । ८० । १ । “अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् । पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ॥”)