वाचस्पत्यम्
प्रशमन || न० प्र + शम—णिच्—ल्युट् । १ बधे २ शान्तताकरणे च “लब्धप्रशमनखास्थ्यम्” रघु “सर्वाबाधाप्रशमनम्” चण्डी शम—भावे ल्युट् । ३ शान्तौ हेमच० ।
शब्दकल्पद्रुमः
प्रशमनं || क्ली (प्र + शम् + णिच् + ल्युट् ।)
मार- णम् । वधः । इति हेमचन्द्रः ॥ (प्र + शम् + ल्युट् ।)
शमता । प्रशान्तिः । यथा, —
“सर्व्वावाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ! । एवमेव त्वया कार्य्यमस्मद्वैरिविनाशनम् ॥” इति मार्कण्डेयपुराणम् । ९१ । ३५ ॥ (प्रतिपादनम् । दानम् । इति कुल्लूकभट्टः ॥ यथा, मनुः । ७ । ५६ । “तैः सार्द्धं चिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम् । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥” स्थिरीकरणम् । प्रशमनेन स्थिरीकरणेन । यथा, रघुः । ४ । १४ । “लब्धप्रशमनस्वस्थमथैनं समुपस्थिता । पार्थिवश्रीर्द्बितीयेव शरत्पङ्कजलक्षणा ॥”)
इति मल्लिनाथः ॥