संस्कृत-शब्दकोशः

प्रशिव्य प्रश्नदूती

प्रश्न

वाचस्पत्यम्

प्रश्न ||‍ पु० प्रच्छ—भावे नङ् । जिज्ञासायाम् ज्ञातुमिच्छया १ क- घनाय प्रेरणे अमरः । अविज्ञातार्थज्ञानार्घम इच्छाप्रयो- ज्यवाक्ये “अविज्ञातप्रबचनं प्रश्व इत्यभिधीयते” । जि- ज्ञासाशब्देन तत्प्रथोज्यकथानुकूलव्यापारोलक्ष्यते को भवान् ? किमेतस्य लक्षणम? इत्यादि । २ उपनिषद्भेदे पु० दैवज्ञं प्रति भाविशुभाशुभज्ञानाय दैवज्ञस्य बचनानु- कूल व्यापारे तदुत्तरज्ञापकशास्त्रञ्च प्रश्चमनोस्माटि ।


शब्दकल्पद्रुमः

प्रश्नः || पुं, (प्रच्छनमिति । प्रच्छ + “यजयाच- यतेति ।” ३ । ३ । ९० । इति नङ् । “च्छ्वोः शूडिति ।” ६ । ४ । १९ । इति शः । “प्रश्ने चेति ।” ३ । २ । ११७ । इति ज्ञापकात् न सम्प्रसारणम् ।)
जिज्ञासा । तत्पर्य्यायः । अनु- योगः २ पृच्छा ३ । इत्यमरः । १ । ६ । १० ॥ (यथा, मनुः । १ । ११५ । “साक्षिप्रश्नविधानञ्च धर्म्मं स्त्रीपुंसयोरपि ॥” “पृच्छा तन्त्रात्यथाम्नायं विधिना प्रश्न उच्यते ॥” इति चरके सूत्रस्थाने त्रिंशेऽध्याये ॥)



Correction: