संस्कृत-शब्दकोशः

प्रस प्रसक्ति

प्रसक्त

वाचस्पत्यम्

प्रसक्त ||‍ त्रि० प्र + सन्ज—क्त । १ प्रसङ्गविषये “प्रसक्तं हि प्रतिषिध्यते” मीमांस० । २ नित्ये नित्यतायुक्ते त्रि० जटा०


शब्दकल्पद्रुमः

प्रसक्तं || क्ली (प्न + सन्ज + क्त ।)
नित्यम् । इति जटाधरः ॥ (यथा, माधवकृतरुग्विनिश्चयस्य कासाधिकारे । “प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासति शुष्कमेव ॥” “प्रसक्तवेगः स्रततकासवेगः ।” इति तट्टी- कायां विजयरक्षितः ।)
तद्वति, त्रि ॥ (आसक्तः । यथा, गीतायाम् । १६ । १६ । “अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥”)



Correction: