वाचस्पत्यम्
प्रसक्ति || स्त्री प्र + सन्ज—मावे क्तिन् । १ प्रसङ्गे २ आपत्तौ ३ अ- नुमितौ दीधितिः । ४ व्याप्तौ च “अतिप्रसक्तिरन्यधर्मत्वे” सा० सू० । अतिव्याप्तिस्तदर्थः ।
शब्दकल्पद्रुमः
प्रसक्तिः || स्त्री (प्र + सन्ज + भाबे क्तिन् ।)
प्रसङ्गः । (यथा, किराते । ५ । ५० । “मा भूवन्नपथहरास्तवेन्द्रियाश्वाः सन्तापे दिशतु शिवः शिवां प्रसक्तिम् ॥”)
अनुमितिः । आपत्तिः । इति सव्यभिचार- शिरोमणिः ॥