संस्कृत-शब्दकोशः

प्रसन्नता प्रसन्नात्मन्

प्रसन्ना

शब्दकल्पद्रुमः

प्रसन्ना || स्त्री (प्रसन्न + टाप् ।)
सुरा । इत्यमरः । २ । १० । ४० ॥ मद्यविशेषः । तस्य गुणाः । “प्रसन्ना गुल्मवातार्शोविबन्धानाहनाशिनी । शूलप्रवाहिकाटोपकफवातार्शसां हिता ॥” इति राजवल्लभः ॥ प्रसादविशिष्टा । यथा, मार्कण्डेये । ८१ । ४३ । “सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥”



Correction: