वाचस्पत्यम्
प्रसर || पु० प्र + सृ—भावाधारादौ यथायथम् अप् कर्त्तरि अच् वा । तन्तुविटपादेः प्रकर्षेण १ सर्पणे प्रकर्षेण २ सरणे अमरः ३ वेगे ४ प्रलये च मेदि० । ५ समूहे शब्दर० ६ युद्धे विश्वः । ७ नाराचास्त्रे ८ विसर्पणकर्त्तरि त्रि० ।
शब्दकल्पद्रुमः
प्रसरः || पुं, (प्र + सृ + भावादौ यथायथं अप् ।)
तन्तुव्रणविटपादेर्व्विसर्पणम् । प्रकर्षेण निकटे सरणं सर्पणम् । तत्पर्य्यायः । विसर्पः २ । इत्य- मरभरतौ । ३ । २ । २३ ॥ (यथा, रघुः । १६ । २० । “तिरस्क्रियन्ते कृमितन्तुजालै- र्विच्छिन्नधूमप्रसरा गवाक्षाः ॥”)
प्रणयः । वेगः । इति मेदिनी । रे, १८२ ॥ (यथा, कलाविलासे । १ । २१ । “इति विनयनम्रशिरसा तेन घचो युक्तमुक्त- मवधार्य्य । तमुवाच मूलदेवः प्रीतिप्रसरैः प्रसारितौ- ष्ठाग्रः ॥”)
समूहः । इति शब्दरत्नावली ॥ (यथा, आर्य्या- सप्तशत्याम् । ५८९ । “स्तननूतननखलेखालम्बी तव घर्म्मविन्दु- सन्दोहः । आभाति पट्टसूत्रे प्रविशन्निव मौक्तिकप्रसरः ॥” प्रकृष्टसञ्चरणम् । यथा, —
“अत ऊर्द्ध्वं प्रसरं वक्ष्यामः । तेषामेभिरातङ्क- विशेषैः प्रकुपितानां पर्य्युषितकिण्वोदकपिष्ट- समवाय इवोद्रिक्तानां प्रसरो भवति तेषां वायु- र्गतिमत्त्वात् प्रसरणहेतुः सत्यप्यचैतन्ये स हि रजोभूयिष्ठो रजश्च प्रवर्त्तकं सर्व्वभावानाम् । यथा महानुदकसञ्चयोऽतिवृद्धः सेतुमवदार्य्या- परेणोदकेन व्यामिश्रः सर्व्वतः प्रधावत्येवं दोषाः कदाचिदेकशो द्विशः समस्ताः शोणितसहिता वानेकधा प्रसरन्ति ।” इति सुश्रुते सूत्रस्थाने २१ अध्यायः ॥)
युद्धम् । इति विश्वः । नाराचः । इति भूरिप्रयोगः ॥