वाचस्पत्यम्
प्रसरण || न० प्र + सृ—भावे ल्युट् । १ सैन्यादेः सर्वतो गमने तृणाद्याहरणार्थं सैन्यानामितस्ततो गतौ ३ आसारे अमरः । अनि प्रसरणि तथार्थे स्त्री रामाश्रमः वा ङीप्
शब्दकल्पद्रुमः
प्रसरणं || क्ली (प्र + सृ + भावे ल्युट् ।)
सैन्यानां सर्व्वतो व्याप्तिः । तत्पर्य्यायः । आसारः २ । इत्यमरः । २ । ८ । ९६ ॥ प्रसरणी ३ प्रस- रणिः ४ प्रसारणी ५ । इति रामाश्रमः ॥ सैन्यानां तृणकाष्ठादिहेतवे इतस्ततो गमनम् । इति हेमचन्द्रः । ३ । ४५५ ॥ (गमनमात्रम् । यथा, मृच्छकटिके । ३ अङ्के । “मार्ज्जारः क्रमणे मृगः प्रसरणे श्येनो गृहा- लुञ्चने सुप्तासुप्तमनुष्यवीर्य्यतुलने श्वा सर्पणे पन्नगः ॥” अभ्युत्थानादिकम् । यथा, भागवते । ५ । १ । २९ । “वर्हिष्यत्याश्चानुदिनमेधमानप्रमोदप्रसरण- यौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वे- ल्यादिभिरिति ॥”)