वाचस्पत्यम्
प्रसव्य || त्रि० प्रगतं सव्यं वामत्वम् । १ प्रतिकूले अमरः । कर्मणि यत् । २ प्रसवनीये त्रि० ।
शब्दकल्पद्रुमः
प्रसव्यं || त्रि (प्रगतं सव्यादिति ।)
प्रतिकूलम् । इत्यमरः । ३ । १ । ८४ ॥ (प्रदक्षिणम् । यथा, रामायणे । २ । ७३ । २० । “प्रसव्यञ्चापि तञ्चक्रुरृ त्विजोऽग्निचितं नृपम् ॥” प्र + सू + कर्म्मणि यत् । प्रसवनीये च ॥)