संस्कृत-शब्दकोशः

प्रसव्य प्रसहन

प्रसह

वाचस्पत्यम्

प्रसह ||‍ त्रि० सहति प्र + सह—अच् । १ प्रकर्षेण सोढरि प्रसह्य वलात्कारेण भक्षयतीति प्रसहः । बलात्का- रेण भक्षके २ खगभेदे “काको गृध्र उलूकश्च चिल्लश्च शगघातकः । चाषो भासश्च कुरवः इत्याद्याः प्रसहाः स्मृताः” शशघातकः (वाज) इति लोके “प्रमहाः कीर्त्तिता एत प्रसह्याछिद्य भक्षणात् । प्रसहाः खलु- वीर्य्योष्णान्तन्मांसं भक्षयन्ति ये । ते शोषभस्मकोन्म देः शुक्रक्षीणा भवन्ति हि” भावप्र० ।


शब्दकल्पद्रुमः

प्रसहः || पुं, (प्रसहतीति । प्र + सह् + अच् ।)
बलात्कारेण भक्षकपक्षी । स च कुरर- श्येनादिः । यथा, —
“प्रसह्य भक्षयन्त्येते प्रसहास्तेन कीर्त्तिताः ॥” अस्य मांसगुणाः । “गुरूष्णमधुराः स्निग्धा वातघ्नाः शुक्रवर्द्धनाः ।” इति राजवल्लभः । अपि च भावप्रकाशे । “काको गृध्र उलूकश्च चिल्लश्च शशघातकः । चाषो भासश्च कुरर इत्याद्याः प्रसहाः स्मृताः ॥ शशघातकः वाज इति लोके । प्रसहाः कीर्त्तिता एते प्रसह्य छिद्य भक्षणात् । प्रसहाः खलु वीर्य्योष्णास्तन्मांसं भक्षयन्ति ये ॥ ते शोषभस्मकोन्मादैः शुक्रक्षीणा भवन्ति हि ॥”



Correction: