शब्दकल्पद्रुमः
प्रसाधनी || स्त्री (प्रसाध्यतेऽनयेति । प्र + साध् + ल्युट् । ङीप् ।)
सिद्धिः । इति मेदिनी । ने, १९५ ॥ कङ्कतिका । इत्यमरः । २ । ६ । १३९ ॥ (यथा, सुश्रुते चिकित्सितस्थाने । २४ । “केशप्रसाधनी केश्या रजोजन्तुमलापहा ॥”)
तद्युक्तिर्यथा, —
“प्रसाधनी दिङ्नवनागसप्त- सङ्ख्याभिरुक्ताङ्गुलिभिः क्रमेण । चतुर्व्विधानां पृथिवीपतीनां सम्पत्तिसौभाग्ययशःसमृद्धिदा ॥” काष्ठजा धातुजा चैव शृङ्गजा च यथाक्रमम् ॥ जाङ्गलानूपसामान्यदेशजानां महीभुजाम् ॥ छत्रदण्डवदुन्नेयः काष्ठजाया विनिश्चयः । कनकं रजतं ताम्रं पित्तलं सीसकं तथा ॥ लौहं सर्व्वञ्च सर्व्वार्द्धमादित्यादिदशाभुवाम् । राज्ञामेवोपयुज्येत कालकीर्त्तिप्रसाधनी ॥ मृगाणां महिषाणाञ्च सिंहजाता प्रसाधनी । गजदन्तसमुद्भूता राज्ञामेवोपयुज्यते ॥ अत्रापि रत्नविन्यासो ज्ञेयश्चामरदण्डवत् ॥” इति युक्तिकल्पतरुः ॥