शब्दकल्पद्रुमः
प्रसाधिका || स्त्री (प्रसाध्यति निष्पादयतीति । प्र + साध् + ण्वुल् । टापि अत इत्वम् ।)
नीवारः । यथा, —
“प्रसाधिका तु नीवारस्तृणान्तमिति च स्मृतम् ॥” अस्या गुणाः । “नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत् ॥” इति भावप्रकाशः ॥ (प्रसाधयति अलङ्करोर्ताति । प्र + साध् + णिच् + ण्वुल् ।)
वेशकारिणी । यथा, —
“प्रसाधिकालम्बितमग्रपाद- माक्षिप्य काचित् द्रवरागमेव ॥” इति कुमारसम्भवे सप्तमः सर्गः ॥ (धान्यविशेषः यथा । “अग्रव्रीहिः प्रसा- धिका ।” इति वैद्यकरत्नमायाम् ॥)