शब्दकल्पद्रुमः
प्रसूता || स्त्री (प्रसूते स्म इति । प्र + सू + कर्त्तरि क्तः ।)
जातसन्ताना । तत्पर्य्यायः । जाता- पत्या २ प्रजाता ३ प्रसूतिका ४ । इत्यमरः । २ । ६ । १६ ॥ (यथा, सुश्रुते चिकित्सित- स्थाने । ३१ । “अकाले च प्रसूता स्त्री स्नेहपानं विवर्ज्जयेत् ॥” यथा च हरिवंशे । ८४ । १०१ । “श्रूयन्ते हि स्त्रियो बह्व्यो व्यभिचारव्यतिक्रमैः । प्रसूता देवसङ्काशान् पुत्त्रानमितविक्रमान् ॥”)