संस्कृत-शब्दकोशः

प्रसूता प्रसूतिका

प्रसूति

वाचस्पत्यम्

प्रसूति ||‍ स्त्री + सू—क्तिन् क्तिच् वा । १ प्रसवे अमरः २ उद्भवे ३ तनये ४ दुहितरि च मेदि० ५ सातरि । स्वार्थे क । प्रसूतिका जातप्रसवायां स्त्रियाम् अमरः ।


शब्दकल्पद्रुमः

प्रसूतिः || स्त्री (प्रसूयते इति । प्र + सू + क्तिन् ।)
प्रसवः । इत्यमरः । ३ । २ । १० ॥ (यथा, —
“कृष्णा वचा चापि जलेन पिष्टा सैरण्डतैला खलु नाभिलेपात् । सुखं प्रसूतिं कुरुतेऽङ्गनानां निपीडितानां बहुभिः प्रमादैः ॥” इति भावप्रकाशस्य मध्यखण्ड चतुर्थे भागे ॥ प्र + सू + भावे क्तिन् ।)
उद्भवः । (यथा, शकुन्तलायाम् ४ अङ्के । “आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्व्वैरनु- ज्ञायताम् ॥”)
तनयः । दुहिता । इति मेदिनी । ते, १२९ ॥ (सन्ततिः । यथा, रघुः । ५ । ७ । “कच्चिन्मृगीणामनघा प्रसूतिः ॥” कारणम् । यथा, रघुः । २ । ६३ । “न केवलानां पयसां प्रसूति- मवेहि मां कामदुषां प्रसन्नाम् ॥” उत्पत्तिस्थानम् । यथा, महाभारते । १ । २३३ । १४ । “त्वं सर्व्वस्य भुवनस्य प्रसूति- स्त्वमेवाग्ने ! भवसि प्रतिष्ठा ॥” दक्षपत्नी । सा तु सतीजननी । यथा, ब्रह्म- वैवर्त्ते । २ । १ । १२८ । “देवहूतिः कर्द्दमस्य प्रसूतिदक्षकामिनी ॥”)



Correction: