वाचस्पत्यम्
प्रसृत || न० प्र + सृ—क्त । १ पलद्वये शब्दमा० २ अर्द्धाञ्जलौ न० । कर्त्तरि क्त । ३ प्रसरणयुते त्रि० अमरः । ४ विहिते ५ वेगिते त्रि० मेदि० । ६ गते त्रि० त्रिका० ७ नियुक्ते त्रि० हला० । ८ जङ्घायां स्त्री मेदि० ।
शब्दकल्पद्रुमः
प्रसृतं || क्ली (प्र + सृ + क्तः ।)
पलद्बयम् । इति शब्दमाला ॥ (यथा, सुश्रुते चिकित्सितस्थाने । ६ । “कृष्णतिलप्रसृतं प्रकुञ्चं वा प्रातः प्रातरनुसेवेत शीतोदकानुपानम् ॥” “पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च निगद्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)
शब्दकल्पद्रुमः
प्रसृतः || त्रि (प्र + सृ + क्तः ।)
प्रवृद्धः । प्रसा- रितः । इत्यमरः । ३ । १ । ८८ ॥ (यथा, देवी- भागवते । १ । १४ । ५ । “न शशाक नियन्तुञ्च स व्यासः प्रसृतं मनः ॥”)
विनीतः । वेगितः । इति मेदिनी । ते, १२३ ॥ गतः । इति त्रिकाण्डशेषः ॥ नियुक्तः । इति हलायुधः । २ । ३६० ॥
शब्दकल्पद्रुमः
प्रसृतः || पुं, (प्र + सृ + क्तः ।)
निकुब्जपाणिः । अर्द्धाञ्जलिः । इत्यमरः । २ । ६ । ८५ ॥ (यथा, शतपथब्राह्मणे । ४ । ५ । १० । ७ । “यद्यनुलभेरन् प्रसृतमात्रं वाञ्जलिमात्रं वा ॥”)