वाचस्पत्यम्
प्रसृतज || पु० १ कुण्डगोलकरूपे पुत्रभेदे “आत्मा पुत्रश्च विज्ञे- यस्तस्यानन्तरजश्च सः । निरूक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा” भा० अनु० ४९ अ० । “निरुक्तजः स्वक्षेत्रे ऽन्योरेतःसेकार्थमुक्तस्तज्जः (क्षेत्रजः) प्रसूतोऽनिरुक्षो यो लोल्यात् परक्षेत्रे रेतः सिञ्चति तज्जः प्रसृतजः” (कुण्डगोलकरूपः) नीलक० ।