वाचस्पत्यम्
प्रसेक || पु० प्र + सिच—भावे घञ् । १ आसिद्धने २ च्युतौ च मेरि०
शब्दकल्पद्रुमः
प्रसेकः || पुं, (प्रसेचनमिति । प्र + सिच् + घञ् ।)
सेचनम् । च्युतिः । इति मेदिनी । के, १११ ॥ (यथा, ऋतुसंहारे । ३ । ६ । “मत्तद्बिरेफपरिपीतमधुप्रसेक- श्चित्तं विदारयति कस्य न कोविदारः ॥” रागविशेषः । यथा, सुश्रुते । १ । ४६ । “श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् । हन्ति मूलकयूषस्तु कफमेदोगलामयान् ॥”)