वाचस्पत्यम्
प्रस्कन्दन || न० प्र + स्कन्द—भावे ल्युट् । १ आस्कन्दने “अग्नि- प्रस्कन्दनपरः” भा० आ० ८४ अ० । अपादाने ल्युट् । आस्कन्दनाग्रादाने यत आस्कन्दनं क्रियते २ तस्मिन् । भावे ल्युट् । ३ विरेके रत्नमा० तत्रार्थे प्रस्यन्दनमित्येव न्याय्यः पाठः स्यन्दतेर्धातोरर्थानुगमात् तत्रार्थे प्रस्क- न्दनमिति पाठस्तु लिपिकरप्रमादात् । कर्त्तेरि ल्यु । ४ महादेवे भा० अ० १७ अ० ।
शब्दकल्पद्रुमः
प्रस्कन्दनं || क्ली (प्र + स्कन्द + ल्युट् ।)
विरेकः । इति रत्नमाला ॥ (यथा, महाभारते । १ । ८४ । २६ । “अग्निप्रस्कन्दनपरस्त्वञ्चाप्येवं भविष्यसि ॥”)