संस्कृत-शब्दकोशः

प्रस्कन्न प्रस्तर

प्रस्कुन्द

वाचस्पत्यम्

प्रस्कुन्द ||‍ पु० प्रगतः कुन्दम् चक्रम् अत्या० स० धारस्करा० सुट् । कुन्दाख्यचक्राकारवेदिकायाम् “प्रस्कुन्देन प्रतिष्टव्यः” भा० उ० ७२ अ० । “प्रस्कन्देनेति पाठे मध्यमशिफयेत्यर्थः” । नीलकण्ठः ।



Correction: