वाचस्पत्यम्
प्रस्तर || पु० प्र + स्तॄ—अच् । १ पाषाणे (पातर) २ पल्लवाद्यैरचिते शयनीये शब्दर० ३ मणौ मेदि० ४ दर्भमुष्टौ “अध्यर्युः प्रस्तरं प्रहरति” ताण्ड्य० ब्र० ६७१६ “प्रस्तरो दर्भ- मुष्टिः” भाष्यम् । तं प्रशंसति “यजमानो वै प्रस्तरः” १७ । “प्रस्तरस्य हबिरासादनादिद्वारा यागसाधन- त्वात् यजमानोऽपि यज्ञसाधनमिति यागसाधनत्वसाम्यात् प्रस्तरो यजनानत्वेन स्तूयते” भा० ।
शब्दकल्पद्रुमः
प्रस्तरः || पुं, (प्रस्तृणाति आच्छादयति यः । (प्र + स्तॄ + पचाद्यच् ।)
शिला । पातर इति भाषा । तत्पर्य्यायः । ग्रावा २ पाषाणः ३ उपलः ४ अश्मा ५ दृशत् ६ दृषत् ७ पारारुकः ८ पारटीटः ९ मृन्मरुः १० काचकः ११ शिला १२ ॥ पल्लवादिरचितशय्या । यथा, —
“पल्लवाद्यैर्विरचिते शयनीये तु संस्तरः । प्रस्तरः प्रस्तिरश्चेति प्रस्तारोऽपि च कुत्रचित् ॥” इति शब्दरत्नावली ॥ (यथा, मनुः । २ । २०४ । “गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च । आसीत गुरुणा सार्द्धं शिलाफलकनौषु च ॥”)
मणिः । इति मेदिनी । रे, १८१ ॥