संस्कृत-शब्दकोशः

प्रस्ताव प्रस्तिर

प्रस्तावना

वाचस्पत्यम्

प्रस्तावना ||‍ स्त्री प्र + स्तु—णिच्—ल्युट् । १ आरम्भे जटा० “आर्य्यवालचरितप्रस्तावनाडिण्डिमः” वीरच० । प्रस्ताव- वयति प्र + स्तु—णिच्—ल्यु । नाटकाङ्गे आरम्भार्थके आमुखे स्त्री तल्लक्षणभेदादिकं सा० द० उक्तं तच्च आमुख शब्दे ७६६ पृष्ठादौ दृश्यम् ।


शब्दकल्पद्रुमः

प्रस्तावना || स्त्री (प्रस्तावयति विज्ञापयति कार्य्या- दिकमिति । प्र + स्तु + णिच् + युच् । टाप् ।)
आरम्भः । इति जटाधरः ॥ सूत्रधारेण सह नटीविदूषकादीनां परस्परविचित्रभाषणम् तस्या लक्षणम् । यथा, —
“नटी विदूषको वापि पारिपार्श्विक एव वा । सूत्रधारेण सहिताः संलापं यत्र कुर्व्वते ॥ चित्रैर्व्वाक्यैः स्वकार्य्योत्थैः प्रस्तुताक्षेपिभिर्म्मिथः । आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥” इति साहित्यदर्पणम् ॥



Correction: