वाचस्पत्यम्
प्रस्तुत || त्रि० प्र + स्तु—कर्मणि क्त । १ प्रकरणप्राप्ते २ प्रासङ्गिके ३ उपस्थिते ४ उद्यते ५ प्रतिपन्ने ६ प्रकर्षेण स्तुते च ।
शब्दकल्पद्रुमः
प्रस्तुतः || त्रि (प्रस्तूयते स्मेति । प्र + स्तु + क्तः ।)
प्रकरणप्राप्तः । यथा, —
“अप्रस्तुतप्रशंसा सा या चैव प्रस्तुताश्रया ॥” इति काव्यप्रकाशः ॥ प्राकरणिकः । प्रासङ्गिकः । इत्यलङ्कार- कौस्तुभः ॥ निष्पन्नः । यथा । प्रस्तुतवृत्तेर्मयट् । अन्नं प्रस्तुतं अन्नमयम् । यवागूः प्रस्तुता यवागू- मयी । इति कलापतद्धितः ॥ प्रकर्षस्तुति- युक्तः । प्रपूर्ब्बस्तुधातोः कर्म्मणि क्तः । उप- स्थितः । प्रतिपन्नः । उद्युक्तः । इति लोकव्यव- हारदर्शनात् ॥