संस्कृत-शब्दकोशः

प्रस्फुट प्रस्यन्द

प्रस्फोटन

वाचस्पत्यम्

प्रस्फोटन ||‍ न० प्रस्फुट्यते अनेन प्र + स्फुट—करणे ल्युट् । १ शूर्पे (कुला) ख्याते अमरः । भावे ल्युट् । २ ताडने ३ प्रकाशे च मेदि० ।


शब्दकल्पद्रुमः

प्रस्फोटनं || क्ली (प्रस्फोट्यतेऽनेनेति । प्र + स्फुट् + णिच् + करणे ल्युट् ।)
सूर्पम् । इत्यमरः । २ । ९ । २६ ॥ (प्र + स्फुट् + भावे ल्युट् ।)
ताडनम् । विकाशनम् । इति मेदिनी । ने, १९२ ॥ पवनम् । तुषादिशोधनम् । इति हेम- चन्द्रः । ४ । ८३ ॥



Correction: