संस्कृत-शब्दकोशः

प्रहर्षण प्रहस

प्रहर्षणी

शब्दकल्पद्रुमः

प्रहर्षणी || स्त्री (प्रहर्षयतीति । प्र + हृष् + णिच् + ल्युः । ङीष् ।)
हरिद्रा । इति हारावली । त्रयोदशाक्षरपादच्छन्दोभेदः । तस्या लक्षणं यथा । छन्दोमञ्जर्य्याम् । “त्र्याशाभिर्मनजरगाः प्रहर्षणीयम् ।” तस्या उदाहरणं यथा, —
“गोपीनामधरसुधारसस्य पानै- रुत्तुङ्गस्तनकलसोपगूहनैश्च । आश्चर्य्यैरपि रतिविभ्रमैर्मुरारेः संसारे मतिरभवत् प्रहर्षणीह ॥”



Correction: