संस्कृत-शब्दकोशः

प्रहारिन् प्रहासिन्

प्रहास

वाचस्पत्यम्

प्रहास ||‍ पु० प्रकृष्टो हासोऽस्थ । १ शिवे त्रिका० २ नटे धरणिः ३ सोमतीर्थे जटा० । प्रा० स० । ४ अट्टहासे पु० शब्दर० । ५ वा- गभेदे पु० भा० आ० ५७ अ० ।


शब्दकल्पद्रुमः

प्रहासः || पुं, (प्रकृष्टो हासो यस्य ।)
शिवः । इति त्रिकाण्डशेषः ॥ (कार्त्तिकेयस्य अनुचर- विशेषः । यथा, महाभारते । ९ । ४५ । ६६ । “रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दकः ॥” नागविशेषः । यथा, तत्रैव । १ । ५७ । १५ । “पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः ॥” प्रकृष्टो हासो यस्मात् ।)
नटः । इति धरणिः ॥ (प्रकृष्टो हासः प्रकाशो यस्य ।)
सोमतीर्थम् । इति जटाधरः ॥ (प्रकृष्टो हास इति ।)
अट्ट- हासः । इति शब्दरत्नावली ॥ (यथा, कामन्दकीये । ५ । २० । “न नर्म्मसचिवैः सार्द्धं किञ्चिदप्यप्रियं वदेत् । ते हि मर्म्माण्यभिघ्नन्ति प्रहासेनापि संसदि ॥”)



Correction: