शब्दकल्पद्रुमः
प्राकृतमानुषः || पुं, (प्राकृतः सामान्यो मानुषः ।) सामान्यमनुष्यः । यथा, महाभारते गदापर्व्वणि । “एकादशचमूनाथं भीम ! पादेन मा स्पृश । पञ्चानामपि यो भर्त्ता नासौ प्राकृतमानुषः ॥”