वाचस्पत्यम्
प्राकृतमित्र || न० कर्म० । स्वभावसिद्धे मित्रे विषयानन्तरस्थ नृपरूपात् प्राकृतशत्रोः अव्यवहितोत्तरविषयस्थे नृपे ।
शब्दकल्पद्रुमः
प्राकृतमित्रं || क्ली (प्राकृतं स्वाभाविकं मित्रं सुहृत् ।)
स्वदेशव्यवहितदेशावस्थितराजादिः । यथा, माघे । २ । ३६ । “सखा गरोयान् शत्रुश्च कृत्रिमस्तौ हि कार्य्यतः । स्याताममित्रौ मित्रे च सहजप्राकृतावपि ॥” अस्य टीका । “ननु क्षुद्रोऽयं चैद्यः किं नः करिष्यतीत्याशङ्क्य तस्य बलवत्तां वक्तुं मित्रा- मित्रबलाबलविवेकं तावत् करोति । सखेति । क्रियया उपकारापकारान्यतररूपया निर्वृत्तः कृत्रिमः सखा सुहृत् गरीयान् बलवान् एवं शत्रुश्च कृत्रिमो गरीयान् कुतः हि यस्मात्तौ कृत्रिममित्रशत्रू च कार्य्यतः उपकारापकार- रूपकार्य्यवशात् निर्वृत्ताविति शेषः । उक्तकार्य्यो- पाधेर्यावज्जीवमनपायादनयोर्म्मित्रामित्रभावो- ऽपि अनपायीति गरीयस्त्वमिति भावः । सहज- प्राकृतौ तु नैवमित्याह । स्यातामिति । सह- जातः सहजः एकशरीरावयवत्वात् तत्र सहजं मित्रं मातृष्वसेयपितृष्वसेयादि सहजशत्रुस्तु पितृव्यतत्पुत्त्रादिः प्रकृत्या सिद्धः प्राकृतः पूर्ब्बोक्तसहजकृत्रिमलक्षणरहित इत्यर्थः । तत्र विषयान्तरः प्राकृतः शत्रुः तदनन्तरः प्राकृतं मित्रं अपि त्वर्थे तौ सहजप्राकृतौ शत्रुमित्रे च स्यातां न त्वात्मकार्य्यवशादनियमेनोभयरूपता- मापद्येते न कृत्रिमशत्रुमित्रे कृत्रिमशत्रुः शत्रु- रेव मित्रञ्च मित्रमेवेति कृत्रिमावेव मित्रामित्रौ गरीयांसौ न तु सहजौ नापि प्राकृतावित्यर्थः । अनेन कृत्रिमत्वं सर्व्वापवादीति सिद्धम् ।” इति मल्लिनाथः ॥