संस्कृत-शब्दकोशः

प्राकृतिक प्राक्छाय

प्राक्

शब्दकल्पद्रुमः

प्राक् || व्य, पूर्ब्बदिग्देशकालाः । इत्यमरः । ३ । ४ । २३ ॥ प्राची दिक् प्राङ् देशः काली वा प्राक् । एवं प्राच्या दिशः प्राचो देशात् कालाद्बा आगतः प्रागागतः । एवं प्राच्यां दिशि प्राचि देशे वा वसति प्राग्वसति । दिक्- शब्दाद्दिग्देशकाले इति प्रथमापञ्चमीसप्तमीनां स्तात् अचो लुगिति स्तातो लुक् । इति तट्टी- कायां भरतः ॥ (“दिक्छब्देभ्यः सप्तमीपञ्चमी- प्रथमाभ्यो दिक्देशकालेष्वस्तातिः ।” ५ । ३ । २७ । इति अस्तातिः । “अञ्चेर्लुक् ।” ५ । ३ । ३० । अस्तातेर्लुक् । “लुक् तद्धितलुकि ।” १ । २ । ४९ । इति स्त्रीप्रत्ययस्य लुक् ।)
पूर्ब्बम् । (यथा, मनुः । २ । २९ । “प्राक् नाभिवर्द्धनात् पुंसो जातकर्म्म विधीयते ॥”)
प्रभातम् । अवान्तरम् । अतीतम् । अग्रम् । इति हेमचन्द्रः मेदिनी च । चे, ७ ॥ क्रम- प्राप्तिः । इति शब्दरत्नावली ॥



Correction: