वाचस्पत्यम्
प्रागभाव || पु० प्राग्वर्ती अभावः । इह कपाले घटो भविष्य- तीत्यादिप्रतीतिसिद्धे संसर्गाभावभेदे “प्रागभावस्तथा ध्वं- सोऽप्यत्यन्ताभाव एव च । एवं त्रैविध्यसापन्नः संसर्गाभाव इष्यते” भाषा० । तल्लक्षणन्तु ध्वंसप्रतियोगित्वे सत्यभा- वत्वम् । स च उपादानदेशः एव वर्त्तते नान्यत्र । तस्य च सामान्यधर्मानच्छिन्नप्रतियोगिताकत्वं नास्ति किन्तु तत्त- द्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वम् । स च प्रतियोगि- जनकः इति न्यायमते । साख्यादिमते भावस्यानागता- वस्थैव प्रागभावपदवाच्येति भेदः ।
शब्दकल्पद्रुमः
प्रागभावः || पुं, (प्राग्वर्त्ती अभावः ।)
संसर्गा- भावविशेषः ॥ (यथा, भाषापरिच्छेदे । १२ — १३ । “अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः । प्रागभावस्तथाध्वंसोऽप्यत्यन्ताभाव एव च ॥ एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते ॥”)
तस्य लक्षणम् । विनाश्यभावत्वम् । इति सिद्धान्तमुक्तावली ॥